|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.355. अध्यायः 355
Mahabharata - Shanti Parva - Chapter Topics
नारदंप्रति नरनारायणाभ्यां पित्र्ये कर्मणि विशेषनिरूपणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-355-0x(6623)(80200)
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः।
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्॥ 12-355-1(80201)
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः।
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते॥ 12-355-2(80202)
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथातथम्।
किमेतत्क्रियते कर्म फलं वाऽस्य किमिष्यते॥ 12-355-3(80203)
नारद उवाच। 12-355-4x(6624)
त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि।
दैवतं च परो ज्ञेयः परमात्मा सनातनः॥ 12-355-4(80204)
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम्।
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः॥ 12-355-5(80205)
मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत्।
अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः॥ 12-355-6(80206)
यजामि वै पितॄन्साधो नारायणविधौ कृते।
एवं स एव भगवान्पिता माता पितामहः॥ 12-355-7(80207)
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः।
श्रुतिश्चाप्यपरा देवाः पुत्रान्हि पितरोऽयजन्॥ 12-355-8(80208)
वेदश्रुतिः प्रनष्टा च पुनरध्यापिता सुतैः।
ततस्ते मन्त्रदाः पुत्राः पितॄणामिति वैदिकम्॥ 12-355-9(80209)
नूनं सुरैस्तद्विदितं युवयोर्भावितात्मनोः।
पुत्राश्च पितरश्चैव परस्परमपूजयन्॥ 12-355-10(80210)
त्रीन्पिण्डान्न्यस्य वै पित्र्यान्पूर्वं दत्त्वा कुशानिति।
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा॥ 12-355-11(80211)
नरनारायणावूचतुः। 12-355-12x(6625)
इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम्।
गोविन्द उज्जहाराशु वाराहं रूपमास्थितः॥ 12-355-12(80212)
स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः।
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः॥ 12-355-13(80213)
प्राप्ते चाह्निककाले तु मध्यदेशगते रवौ।
दंष्ट्राविलग्नांस्त्रीन्पिण्डान्विधूय सहसा प्रभुः॥ 12-355-14(80214)
स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद।
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि॥ 12-355-15(80215)
संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः।
आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि॥ 12-355-16(80216)
प्रोक्ष्यापसव्यं देवेशः प्राङ्भुखः कृतवान्स्वयम्।
मर्यादास्थापनार्थं च ततो वचनमुक्तवान्॥ 12-355-17(80217)
वृषाकपिरुवाच। 12-355-18x(6626)
अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम्।
तस्य चिन्तयतः सद्यः पितृकार्यविधीन्परान्॥ 12-355-18(80218)
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम्।
आश्रिता धरणीं पीड्य तस्मात्पितर एव ते॥ 12-355-19(80219)
त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे।
भवन्तु पितरो लोके मया सृष्टाः सनातनाः॥ 12-355-20(80220)
पिता पितामहश्चैव तथैव प्रपितामहः।
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः।
नास्ति मत्तोऽधिकः कश्चित्को वान्योर्च्यो मया स्वयं 12-355-21(80221)
अहमेव पिता लोके अहमेव पितामहः।
पितामहपिता चैव अहमेवात्र कारणम्॥ 12-355-22(80222)
इत्येतदुक्त्वा वचनं देवदेवो वृषाकपिः।
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान्।
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः॥ 12-355-23(80223)
एतदर्थं सुभमते पितरः पिण्डसंज्ञिताः।
लभन्ते सततं पूजां वृषाकपिवचो यथा॥ 12-355-24(80224)
ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिर्थीस्तथा।
गाश्चैव द्विजमुख्यांश्च पितरं मातरं तथा॥ 12-355-25(80225)
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते।
अन्तर्गतः स भगवान्सर्वसत्वशरीरगः॥ 12-355-26(80226)
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः।
महान्महात्मा सर्वात्मा नारायण इति श्रुतिः॥ ॥ 12-355-27(80227)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः॥ 355॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-355-2 क इज्यते द्विजवरैर्दैवे पित्र्ये च कर्मणीति ध. पाठः॥ 12-355-4 परो यज्ञ इति झ. पाठः॥ 12-355-6 मम पितरं प्रजापतिम्। ब्रह्मा परमेष्ठीति संबन्धः। नारदो दक्षशापात्प्रजापतेः सकाज्ञात्पुनर्जन्म प्रापेति हरिवंशेऽस्ति। तस्य ब्रह्मणः॥ 12-355-7 नारायणविधौ तान्त्रिके पूजादौ॥ 12-355-8 अग्निष्वात्तादीन्पुत्रान् पितरो देवा अध्याप्यासुरैः सह युद्धार्थं गतास्ततश्चिरोपिताना तेषां श्रुतिः नष्टा न प्रतिभाति। ततस्ते पुत्रेभ्य एव वेदमधीतयन्त इत्याख्यायिका पुराणान्तरप्रसिद्धा सूचिता॥ 12-355-9 पुत्राः पितृत्वमुपपेदिर इति झ. ध. पाठः॥ 12-355-11 न्यस्य वै पृथ्व्यामिति ध. थ. पाठः। पूर्वं पृथ्व्यां कुशान्दत्वा तत्र पित्राद्युद्देशेन पिण्डान्न्यस्यापूजयमिति संबन्धः॥ 12-355-14 मध्यंदिनगते रवाविति थ. ध. पाठः। दंष्ट्राविलग्नान्मृत्पिण़्डानिति ट. थ. पाठः॥ 12-355-16 तिलैरप इति थ. ध. पाठः॥ 12-355-18 पितरः पितॄन्॥ 12-355-19 विष्णोः शालग्रामइव पितॄणां मूर्तयः पिण्डा एवेत्याह। दंष्ट्राभ्यामिति। दंष्ट्राभ्यां प्रविनिर्धूता मृत्पिण्डा दक्षिणां दिशमिति ध. थ. पाठः। दंष्ट्राभ्यां विनिधूतांस्त्रीन्पिण्डानां दक्षिणां दिशमिति ठ. पाठः। आश्रिता शरणीं पिण्डा इति झ. पाठः॥ 12-355-21 पित्तामहश्चेत्यादिना श्राद्धं सर्वं विष्णुदैवत्यमेवेति पित्र्यप्रकारो दर्शितः॥ 12-355-22 न को मम पिता लोक इति ध. पाठः। को वा मम पिता लोके इति झ. पाठः। मातामहः पिता चैवेति ध. पाठः॥ 12-355-24 एषा तस्य स्थितिर्विप्रेति झ. पाठः॥ 12-355-25 पितॄन्भक्त्येति थ. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|